Сварнакаршана-бхайрава-сахасранама-стотра
Материал из ШайваВики
Шива-сахасранама-стотра
Вступление
.. svarṇākarṣaṇabhairava sahasranāma stotram ..
Тысяча имён Шивы-Сварнакаршанабхайравы из Уддамара-тантры
श्री गणेशाय नमः ।
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
पप्रच्छ पार्वतीकान्तं शङ्करं लोकनायकम् ॥ १॥
śrī gaṇeśāya namaḥ .
kailāsaśikhare ramye devadevaṁ jagadgurum .
papraccha pārvatīkāntaṁ śaṅkaraṁ lokanāyakam .. 1..
पार्वत्युवाच ।
देवदेव महादेव सर्वज्ञ सुखदायक ।
आपदुःखदारिद्र्यादि पीडितानां नृणां विभो ॥ २॥
pārvatyuvāca .
devadeva mahādeva sarvajña sukhadāyaka .
āpaduḥkhadāridryādi pīḍitānāṁ nṛṇāṁ vibho .. 2..
यद्वित्तं सुखसम्पत्तिधनधान्यकरं सदा ।
विशेषतो राजकुले शान्ति पुष्टि प्रदायकम् ॥ ३॥
yadvittaṁ sukhasampattidhanadhānyakaraṁ sadā .
viśeṣato rājakule śānti puṣṭi pradāyakam .. 3..
बालग्रहादि शमनं नाना सिद्धिकरं नृणाम् ।
नोक्तपूर्वञ्चयन्नाथ ध्यानपूजा समन्वितम् ॥ ४॥
वक्तुमर्हस्य शेषेण ममानन्द करं परम् ।
bālagrahādi śamanaṁ nānā siddhikaraṁ nṛṇām .
noktapūrvañcayannātha dhyānapūjā samanvitam .. 4..
vaktumarhasya śeṣeṇa mamānanda karaṁ param .
ईश्वर उवाच ।
स्तवराजं महामन्त्रं भैरवस्य श्रृणु प्रिये ॥ ५॥
सर्वकामार्थदं देवि राज्यभोगप्रदं नृणाम् ।
स्मरणात्स्तवराजस्य भूतप्रेत पिशाचकाः ॥ ६॥
īśvara uvāca .
stavarājaṁ mahāmantraṁ bhairavasya śrṛṇu priye .. 5..
sarvakāmārthadaṁ devi rājyabhogapradaṁ nṛṇām .
smaraṇātstavarājasya bhūtapreta piśācakāḥ .. 6..
विद्रवन्त्यभितोभिताः कालरुद्रादिवप्रजाः ।
एकतः पन्नगाः सर्वे गरुडश्चैकतस्तथा ॥ ७॥
vidravantyabhitobhitāḥ kālarudrādivaprajāḥ .
ekataḥ pannagāḥ sarve garuḍaścaikatastathā .. 7..
एकतो घनसङ्घाताश्चण्डवातोयथैकतः ।
एकतः पर्वताः सर्वे दम्भोलिस्त्वेकस्तथा ॥ ८॥
ekato ghanasaṅghātāścaṇḍavātoyathaikataḥ .
ekataḥ parvatāḥ sarve dambholistvekastathā .. 8..
एकतो दैत्यसङ्घाताह्यकतः स्यात्सुदर्शनम् ।
एकतः काष्ठ सङ्घाता एकतोग्निकणोयथा ॥ ९॥
ekato daityasaṅghātāhyakataḥ syātsudarśanam .
ekataḥ kāṣṭha saṅghātā ekatognikaṇoyathā .. 9..
घनान्धकारस्त्वेकत्र तपनस्त्वेकतस्तथा ।
तथैवास्य प्रभावस्तु स्मृतमात्रे न दृश्यते ॥ १०॥
ghanāndhakārastvekatra tapanastvekatastathā .
tathaivāsya prabhāvastu smṛtamātre na dṛśyate .. 10..
स्तवराजं भैरवस्य जपात्सिद्धिमवाप्नुयात् ।
लिखित्वायद्गृहे देवि स्थापितं स्तवमुत्तमम् ॥ ११॥
stavarājaṁ bhairavasya japātsiddhimavāpnuyāt .
likhitvāyadgṛhe devi sthāpitaṁ stavamuttamam .. 11..
तद्गृहं नाभिभूयेत भूतप्रेतादिभिर्ग्रहैः ।
साम्राज्यं सर्वसम्पत्तिः समृद्धि लभ्यते सुखम् ॥ १२॥
तत्कुलं नन्दते पुंसाम्पुत्रपौत्रादिभिर्धृवम् ।
tadgṛhaṁ nābhibhūyeta bhūtapretādibhirgrahaiḥ .
sāmrājyaṁ sarvasampattiḥ samṛddhi labhyate sukham .. 12..
tatkulaṁ nandate puṁsāmputrapautrādibhirdhṛvam .
पार्वत्युवाच ।
यस्त्वया कथितो देव भैरवः स्तोत्रमुत्तमम् ॥ १३॥
अगण्य महिमा सिन्धुः श्रुतो मे बहुधा विभो ।
तस्य नामान्यनन्तानि प्रयुतान्यर्बुदानि च ॥ १४॥
pārvatyuvāca .
yastvayā kathito deva bhairavaḥ stotramuttamam .. 13..
agaṇya mahimā sindhuḥ śruto me bahudhā vibho .
tasya nāmānyanantāni prayutānyarbudāni ca .. 14..
सन्ति सत्यं पुरा ज्ञातं मया वै परमेश्वर ।
सारात्सारं समुधृत्य तेषु नाम सहस्रकम् ॥ १५॥
santi satyaṁ purā jñātaṁ mayā vai parameśvara .
sārātsāraṁ samudhṛtya teṣu nāma sahasrakam .. 15..
ब्रूहि मे करुणाकान्त ममानन्द वर्द्धन ।
यन्नित्यं कीर्तयेन्मर्त्यः सर्वदुःखविवर्जितः ॥ १६॥
brūhi me karuṇākānta mamānanda varddhana .
yannityaṁ kīrtayenmartyaḥ sarvaduḥkhavivarjitaḥ .. 16..
सर्वान्कामान्वाप्नोति सर्वसिद्धिञ्च विन्दति ।
साधकः श्रद्धयायुक्तः सर्वाधिक्योर्कसद्युतिः ॥ १७॥
sarvānkāmānvāpnoti sarvasiddhiñca vindati .
sādhakaḥ śraddhayāyuktaḥ sarvādhikyorkasadyutiḥ .. 17..
अप्रधृष्यश्च भवति सङ्ग्रामाङ्गण मूर्द्धति ।
नाग्निचोरभयं तस्य ग्रहराज भयं न च ॥ १८॥
apradhṛṣyaśca bhavati saṅgrāmāṅgaṇa mūrddhati .
nāgnicorabhayaṁ tasya graharāja bhayaṁ na ca .. 18..
न च मारी भयं तस्य व्याघ्रचोरभयं न च ।
शत्रुणां शस्त्रसङ्घाते भयं क्वापि न जायते ॥ १९॥
na ca mārī bhayaṁ tasya vyāghracorabhayaṁ na ca .
śatruṇāṁ śastrasaṅghāte bhayaṁ kvāpi na jāyate .. 19..
आयुरारोग्यमैश्वर्यं पुत्र पौत्रादि सम्पदः ।
भवति कीर्तनाद्यस्यत्ब्रूहि करुणाकर ॥ २०॥
āyurārogyamaiśvaryaṁ putra pautrādi sampadaḥ .
bhavati kīrtanādyasyatbrūhi karuṇākara .. 20..
Стотра и Стотра-вали
ईश्वर उवाच । नाम्नां सहस्रं दिव्यानं भैरवस्य भवत्कृते । वक्ष्यामि तत्वतः सम्यक् सारात्सारतरं शुभम् ॥ २१॥ īśvara uvāca . |
|||
सर्वपापहरं पुण्यं सर्वोपद्रव नाशनम् । सर्वसम्पत्प्रदं चैव साधकानं सुखावहम् ॥ २२॥ sarvapāpaharaṁ puṇyaṁ sarvopadrava nāśanam . |
|||
सर्व मङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् । आयुःकरं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २३॥ sarva maṅgalamāṅgalyaṁ sarvavyādhinivāraṇam . |
|||
भैरव स्तवराजस्य महादेव ऋषिः स्मृतः । भैरवोदेवताऽनुष्टुप्छन्दश्चैव प्रकीर्तितम् ॥ २४॥ bhairava stavarājasya mahādeva ṛṣiḥ smṛtaḥ . |
|||
सर्वकार्यप्रसिद्ध्यर्थं प्रीतये भैरवस्यहि । करिष्ये हं जपमिति सङ्कल्प्यादौपुमान्सुधीः ॥ २५॥ sarvakāryaprasiddhyarthaṁ prītaye bhairavasyahi . |
|||
ऋषिः शिरसि विन्यस्य छन्दस्तु मुखतो न्यसेत् । देवतां हृदयेन्यस्य ततो न्यासं समाचरेत् ॥ २६॥ ṛṣiḥ śirasi vinyasya chandastu mukhato nyaset . |
|||
भैरवं शिरसिन्यस्य ललाटे भीमदर्शनम् । नेत्रयो भूतहननं सारमेयानुगं भ्रुवौः ॥ २७॥ bhairavaṁ śirasinyasya lalāṭe bhīmadarśanam . |
|||
कर्णयोर्भूतनाथं च प्रेतवाहं कपोलयोः । नासापुटोष्ठ्योश्चैव भस्माङ्गं सर्वभूषणम् ॥ २८॥ karṇayorbhūtanāthaṁ ca pretavāhaṁ kapolayoḥ . |
|||
अनादिभूतमास्ये च शक्ति हस्तङ्गले न्यस्येत् । स्कन्धयेर्दैत्यशमनं बाव्होरतुलतेजसम् ॥ २९॥ anādibhūtamāsye ca śakti hastaṅgale nyasyet . |
|||
पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् । शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ ३०॥ pāṇyoḥ kapālinaṁ nyasya hṛdaye muṇḍamālinam . |
|||
उदरे च सदातुष्टं क्षेत्रेशं पार्श्वयोस्तथा । क्षेत्रपालं पृष्ठदेशं क्षेत्रेज्ञं नाभिदेशके ॥ ३१॥ udare ca sadātuṣṭaṁ kṣetreśaṁ pārśvayostathā . |
|||
पापौघनाशं कट्यां बटुकं लिङ्गदेशके । गुदे रक्षाकरं न्यस्य तथोर्वो रक्तलोचनम् ॥ ३२॥ pāpaughanāśaṁ kaṭyāṁ baṭukaṁ liṅgadeśake . |
|||
जानुनीर्घुर्घुरारावं जङ्घयो रक्तपायिनम् । गुल्फयोः पादुपासिद्धिं पादपृष्ठे सुरेश्वरम् ॥ ३३॥ jānunīrghurghurārāvaṁ jaṅghayo raktapāyinam . |
|||
आपादमस्तकं चैव आपदुद्धारकं न्यसेत् । पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ ३४॥ āpādamastakaṁ caiva āpaduddhārakaṁ nyaset . |
|||
खड्गहस्तं पश्चिमे च घण्टावादिनमुत्तरे । आग्नेयामग्निवर्णं च नैऋत्ये च दिगम्बरम् ॥ ३५॥ khaḍgahastaṁ paścime ca ghaṇṭāvādinamuttare . |
|||
वायव्ये सर्वभूतस्थमीशान्येचाष्टसिद्धिदम् । ऊर्ध्वं खेचरिणं न्यस्य पाताले रौद्ररूपिणम् ॥ ३६॥ vāyavye sarvabhūtasthamīśānyecāṣṭasiddhidam . |
|||
एवं विन्यस्य देवेशी षडङ्गेषु ततो न्यसेत् । हृदये भूतनाथाय आदिनाथायमूर्द्धनि ॥ ३७॥ evaṁ vinyasya deveśī ṣaḍaṅgeṣu tato nyaset . |
|||
आनन्दपदपूर्वायनाथायाथ शिखालये । सिद्धिशाम्बरनाथाय कवचे विन्यस्येत्तथा ॥ ३८॥ ānandapadapūrvāyanāthāyātha śikhālaye . |
|||
सहजानन्दनाथायन्यसेन्नेत्रत्रये तथा । निःसीमानदनाथाय अस्त्रै चैव प्रयोजयेत् ॥ ३९॥ sahajānandanāthāyanyasennetratraye tathā . |
|||
एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् । ध्यानं तस्य प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ४०॥ evaṁ nyāsavidhiṁ kṛtvā yathāvattadanantaram . |
|||
शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् । नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ ४१॥ śuddhasphaṭikasaṅkāśaṁ sahasrādityavarcasam . |
|||
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् । दशबाहुमथोग्रं च दिव्याम्बर परिग्रहम् ॥ ४२॥ aṣṭabāhuṁ trinayanaṁ caturbāhuṁ dvibāhukam . |
|||
दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् । भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ ४३॥ daṁṣṭrākarālavadanaṁ nūpurārāvasaṅkulam . |
|||
दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् । खट्वाङ्गमशिपाशं च शूलं दक्षिणभागतः ॥ ४४॥ digambaramākureśaṁ baṭukākhyaṁ mahābalam . |
|||
डमरुं च कपालं च वरदं भुजगं तथा । आत्मवर्णसमोपेतं सारमेय समन्वितम् ॥ ४५॥ ḍamaruṁ ca kapālaṁ ca varadaṁ bhujagaṁ tathā . |
|||
एवं ध्यात्वा सु सन्तुष्टो जपात्कामान्मवाप्नुयात् । साधकः सर्वलोकेषु सत्यं सत्यं न संशयः ॥ ४६॥ evaṁ dhyātvā su santuṣṭo japātkāmānmavāpnuyāt . |
|||
आनन्द सर्वगीर्वाण शिरोशृङ्गाङ्ग सगिनः । भैरवस्य पदाम्भोजं भूयस्तन्नौमि सिद्धये ॥ ४७॥ ānanda sarvagīrvāṇa śirośṛṅgāṅga saginaḥ . |
|||
ॐ भैरवो भूतनाथश्च भूतात्मा भूतभावनः । भूतावासो भूतपतिर्भूरिदो भूरिदक्षिणः ॥ ४८॥ oṁ bhairavo bhūtanāthaśca bhūtātmā bhūtabhāvanaḥ . |
|||
भूताध्यक्षो भूधरेशो भूधरो भूधरात्मजः । भूपतिर्भास्करि भीरुर्भीमो भूतिर्विभूतिदः ॥ ४९॥ bhūtādhyakṣo bhūdhareśo bhūdharo bhūdharātmajaḥ . |
|||
भूतो भूकम्पनो भूमिर्भौमो भूताभिभावकः । भगनेत्रोभवोभोक्ता भूदेवो भगवानभीः ॥ ५०॥ bhūto bhūkampano bhūmirbhaumo bhūtābhibhāvakaḥ . |
|||
भस्मप्रियो भस्मशायी भस्मोद्धूलितविग्रहः । भर्गः शुभाङ्गो भव्यश्चभूतवाहनसारथिः ॥ ५१॥ bhasmapriyo bhasmaśāyī bhasmoddhūlitavigrahaḥ . |
|||
भ्राजिष्णुर्भोजनम्भोक्ता भिक्षुर्भक्तिजनप्रियः । भक्तिगम्यो भृङ्गिरिटिर्भक्त्या वेदितविग्रहः ॥ ५२॥ bhrājiṣṇurbhojanambhoktā bhikṣurbhaktijanapriyaḥ . |
|||
भूतचारी निशाचारी प्रेतचारी भयानकः । भावात्मा भूर्भुवोलक्ष्मीर्भानुर्भीमपराक्रमः ॥ ५३॥ bhūtacārī niśācārī pretacārī bhayānakaḥ . |
|||
पद्मगर्भो महागर्भो विश्वगर्भाः स्वभूरभूः । भूतलोभुवनाधिशो भूतिकृद्भ्रान्तिनाशनः ॥ ५४॥ padmagarbho mahāgarbho viśvagarbhāḥ svabhūrabhūḥ . |
|||
भूतिभूषितसर्वाङ्गो भूशयोभूतवाहनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रविघ्ननिवारणः ॥ ५५॥ bhūtibhūṣitasarvāṅgo bhūśayobhūtavāhanaḥ . |
|||
क्षान्तः क्षुद्रः क्षेत्रपश्च क्षुद्रघ्नः क्ष्वियः क्षमी । क्षोभणो मारणस्तम्भी मोहनो जृम्भणो वशी ॥ ५६॥ kṣāntaḥ kṣudraḥ kṣetrapaśca kṣudraghnaḥ kṣviyaḥ kṣamī . |
|||
क्षेपणः क्षान्तिदः क्षामः क्षमाक्षेत्रं क्षरोक्षरः । कङ्कालः कालशमनः कलाकाष्टातनुः कविः ॥ ५७॥ kṣepaṇaḥ kṣāntidaḥ kṣāmaḥ kṣamākṣetraṁ kṣarokṣaraḥ . |
|||
कालः कराली कङ्काली कपाली कमनीयकः । कालकालः कृत्तिवासाः कपर्दी कामशासनः ॥ ५८॥ kālaḥ karālī kaṅkālī kapālī kamanīyakaḥ . |
|||
कुबेरबन्धुः कामात्मा कर्णिकारप्रियः कविः । कामदेवः कामपालः कामीकान्तः कृतागमः ॥ ५९॥ kuberabandhuḥ kāmātmā karṇikārapriyaḥ kaviḥ . |
|||
कल्याणः प्रकृतिः कल्पः कल्पादिः कमलेक्षणः । कमण्ड्लुधरः केतुः कालयोगीत्वकल्मषः ॥ ६०॥ kalyāṇaḥ prakṛtiḥ kalpaḥ kalpādiḥ kamalekṣaṇaḥ . |
|||
करणं कारणंकर्ता कैलासपतिरीश्वरः । कामारिः कश्यपोनादि किरीटी कौशिकस्तथा ॥ ६१॥ karaṇaṁ kāraṇaṁkartā kailāsapatirīśvaraḥ . |
|||
कपिलः कुशलः कर्ताकुमारः कल्पवृक्षकः । कलाधरः कलाधीशः कालकण्ठः कपालभृत् ॥ ६२॥ kapilaḥ kuśalaḥ kartākumāraḥ kalpavṛkṣakaḥ . |
|||
कैलासशिखरावासः क्रूरः किर्तिविभूषणः । कालज्ञानी कलिघ्नश्च कम्पितः कालविग्रहः ॥ ६३॥ kailāsaśikharāvāsaḥ krūraḥ kirtivibhūṣaṇaḥ . |
|||
कवची कञ्चुकी कुण्डी कुण्डली कर्यकोविदः । कालभक्षः कलङ्कारिः किङ्किणीकृतवासुकिः ॥ ६४॥ kavacī kañcukī kuṇḍī kuṇḍalī karyakovidaḥ . |
|||
गणेश्वरश्च गौरीशो गिरिशो गिरिबान्धवः । गिरिधन्वा गुहो गोप्ता गुणराशिर्गुणाकरः ॥ ६५॥ gaṇeśvaraśca gaurīśo giriśo giribāndhavaḥ . |
|||
गम्भीरो गहनो गोसागोमानूमन्ता मनोगतिः । श्रीशो गृहपतिर्गोप्ता गौरोगव्यमयः खगः ॥ ६६॥ gambhīro gahano gosāgomānūmantā manogatiḥ . |
|||
गणग्राहि गुणग्राही गगनो गह्वराश्रयः । अग्रगण्येश्वरो योगी खट्वाङ्गी गगनालयः ॥ ६७॥ gaṇagrāhi guṇagrāhī gagano gahvarāśrayaḥ . |
|||
अमोघो मोघफलदो घण्टारावो घटप्रियः । चन्द्रपीडश्चन्द्रमौलिश्चित्रवेशश्चिरन्तनः ॥ ६८॥ amogho moghaphalado ghaṇṭārāvo ghaṭapriyaḥ . |
|||
चतुःशयश्चित्रबाहुरचलश्छिन्नसंशयः । चतुर्वेदश्चतुर्बाहुश्चतुरश्चतुरप्रियः ॥ ६९॥ catuḥśayaścitrabāhuracalaśchinnasaṁśayaḥ . |
|||
चामुण्डाजनकश्चक्षुश्चलचक्षुरचञ्चलः । अचिन्त्य महिमाचिन्त्यश्चराचर चरित्रगुः ॥ ७०॥ cāmuṇḍājanakaścakṣuścalacakṣuracañcalaḥ . |
|||
चन्द्रसञ्जीवनश्चित्र आचार्यश्च चतुर्मुखः । ओजस्तेजोद्युति धरोजित कामोजनप्रियः ॥ ७१॥ candrasañjīvanaścitra ācāryaśca caturmukhaḥ . |
|||
अजातशत्रुरोजस्वी जितकालो जगत्पतिः । जगदादिरजोजातो जगदीशो जनार्दनः ॥ ७२॥ ajātaśatrurojasvī jitakālo jagatpatiḥ . |
|||
जननोजन जन्मादिरार्जुनो जन्मविजयी । जन्माधिपोजटिर्ज्योतिर्जन्ममृत्युजरापहः ॥ ७३॥ jananojana janmādirārjuno janmavijayī . |
|||
जयोजयारि ज्योतिष्मान् जानकर्णो जगद्धितः । जमदग्निर्जलनिधिर्जटिलो जीवितेश्वरः ॥ ७४॥ jayojayāri jyotiṣmān jānakarṇo jagaddhitaḥ . |
|||
जीवितान्तकरो ज्येष्ठो जगन्नाथो जनेश्वरः । त्रिवर्गसाधनस्तार्क्ष्यस्तरणिस्तन्तुवर्द्धनः ॥ ७५॥ jīvitāntakaro jyeṣṭho jagannātho janeśvaraḥ . |
|||
तपस्वी तारकस्त्वष्टा तीव्रश्चात्मसंस्थितः । तपनस्तापसन्तुष्टश्चात्मयोनिरतीन्द्रियः ॥ ७६॥ tapasvī tārakastvaṣṭā tīvraścātmasaṁsthitaḥ . |
|||
उत्तारकस्तिमिरहातीव्रानन्दस्तनूनपातू । अन्तर्हितस्तमिश्रश्चस्तेजस्तेजोमयस्तुतिः ॥ ७७॥ uttārakastimirahātīvrānandastanūnapātū . |
|||
तरुस्तीर्थङ्करस्त्वष्टातत्वन्तत्वविदुत्तमः । तेजोराशिस्तुम्बवीणस्त्वतिथिरतिथिप्रियः ॥ ७८॥ tarustīrthaṅkarastvaṣṭātatvantatvaviduttamaḥ . |
|||
आत्मयोगसमान्मातस्तीर्थदेव शिलामयः । स्थानदः स्थापितः स्थाणुः स्थविष्टः स्थविरः स्थितः ॥ ७९॥ ātmayogasamānmātastīrthadeva śilāmayaḥ . |
|||
त्रिलोकेशः त्रिलोकात्मा त्रिशूलः त्रिदशाधिपः । त्रिलोचनः त्रयीवेद्यः त्रिवर्गस्थः त्रिवर्गदः ॥ ८०॥ trilokeśaḥ trilokātmā triśūlaḥ tridaśādhipaḥ . |
|||
दूरश्रवा दुष्कृतघ्नोदुर्द्धर्षो दुःसहोदयः । दृढपारी दृढोदेवो देवदेवोथ दुन्दुभः ॥ ८१॥ dūraśravā duṣkṛtaghnodurddharṣo duḥsahodayaḥ . |
|||
दीर्घायुधो दीर्घतपो दक्षोदुःस्वप्ननाशनः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरासदः ॥ ८२॥ dīrghāyudho dīrghatapo dakṣoduḥsvapnanāśanaḥ . |
|||
दमो दमयिता दान्तो दातादानन्दयाकरः । दुर्वासाद्रिर्देवकार्यो दुर्ज्ञेयो दुर्भगोदयः ॥ ८३॥ damo damayitā dānto dātādānandayākaraḥ . |
|||
दण्डिदाहो दानवारिर्देवेन्द्रस्त्वरिमर्दनः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ ८४॥ daṇḍidāho dānavārirdevendrastvarimardanaḥ . |
|||
देवासुरमहामन्त्रो देवासुरमहाश्रयः । देवाधिदेवो देवर्षि देवासुरवरप्रदः ॥ ८५॥ devāsuramahāmantro devāsuramahāśrayaḥ . |
|||
देवासुरेश्वरो देव्यो देवासुर महेश्वरः । सर्वदेवमयो दण्डो देवसिंहो दिवाकरः ॥ ८६॥ devāsureśvaro devyo devāsura maheśvaraḥ . |
|||
दम्भो दम्भोमहादम्भो दम्भकृद्दम्भमर्दनः । दर्पघ्नो दर्पदोद्दप्तो दुर्जयो दुरतिक्रमः ॥ ८७॥ dambho dambhomahādambho dambhakṛddambhamardanaḥ . |
|||
देवनाथो दुराधर्षो दैवज्ञो देवचिन्तकः । दक्षारिर्देवपालश्च दुःखदारिद्र्यहारकः ॥ ८८॥ devanātho durādharṣo daivajño devacintakaḥ . |
|||
अध्यात्मयोगरतो निरतो धर्मशत्रु धनुर्द्धरः । धनाधिपो धर्मचारी धर्मधन्वा धनागमः ॥ ८९॥ adhyātmayogarato nirato dharmaśatru dhanurddharaḥ . |
|||
ध्येयोऽग्रधुर्यो धात्रीशो धर्मकृद्धर्मवर्द्धनः । ध्यानाधारो धनन्ध्येयो धर्मपूज्योऽथ धूर्जटिः ॥ ९०॥ dhyeyo'gradhuryo dhātrīśo dharmakṛddharmavarddhanaḥ . |
|||
धर्मधामा धनुर्धन्यो धनुर्वेदो धरातिपः । अनन्तदृष्टिरानन्दो नियमो नियमाश्रयः ॥ ९१॥ dharmadhāmā dhanurdhanyo dhanurvedo dharātipaḥ . |
|||
नलोऽनलो नागभुजो निदाद्यो नीललोहितः । अनादिमध्यनिधनो नीलकण्ठो निशाचरः ॥ ९२॥ nalo'nalo nāgabhujo nidādyo nīlalohitaḥ . |
|||
अनघो नर्तको नेता नियतात्मा निजोद्भटः । ज्ञानन्नित्यप्रकाशात्मा निवृत्तात्मा नदीधरः ॥ ९३॥ anagho nartako netā niyatātmā nijodbhaṭaḥ . |
|||
नीतिः सुनीतिरुन्मत्तोऽनुत्तमस्त्व निवारितः । अनादिनिधनोऽनन्तो निराकारो नभोगतिः ॥ ९४॥ nītiḥ sunītirunmatto'nuttamastva nivāritaḥ . |
|||
नित्यो नियतकल्याणोनगोनिःश्रेयसालयः । नक्षत्रमालिनाकेशो नागहारः पिनाकधृक् ॥ ९५॥ nityo niyatakalyāṇonagoniḥśreyasālayaḥ . |
|||
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः । निरावरणविज्ञानो नरसिंहो निपातनः ॥ ९६॥ nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ . |
|||
नन्दीनन्दीश्वरो नग्नो नग्नब्रह्म धरोनरः । धर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः ॥ ९७॥ nandīnandīśvaro nagno nagnabrahma dharonaraḥ . |
|||
निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्द्दनः । अनघो निष्कलो निष्ठो नीलग्रीवो निरामयः ॥ ९८॥ niṣkaṇṭakaḥ kṛtānando nirvyājo vyājamarddanaḥ . |
|||
अनिरुद्धस्त्वनाद्यन्तो नैकात्मा नैककर्मकृत् । नगरेतानगीनन्दीत्द्यानन्दधनवर्द्धनः ॥ ९९॥ aniruddhastvanādyanto naikātmā naikakarmakṛt . |
|||
योगी वियोगी खट्वाङ्गी खड्गी श्रॄङ्गीखरीगरी । रागी विरागी संरागी त्यागी गौरीवराङ्गदी ॥ १००॥ yogī viyogī khaṭvāṅgī khaḍgī śrṝṅgīkharīgarī . |
|||
डमरूमरुक व्याघ्रहस्ताग्रश्चन्द्रखण्डभृत् । ताण्डवाडम्बररुचीरुण्डमुण्डनपण्डितः ॥ १०१॥ ḍamarūmaruka vyāghrahastāgraścandrakhaṇḍabhṛt . |
|||
परमेश्वरः पशुपतिः पिनाकी पुरशासनः । पुरातनो देवकार्यः परमेष्ठी परायणः ॥ १०२॥ parameśvaraḥ paśupatiḥ pinākī puraśāsanaḥ . |
|||
पञ्चविंशतितत्वज्ञः पञ्चयज्ञप्रभञ्जनः । पुष्करञ्च परम्ब्रह्मपारिजातः परात्परः ॥ १०३॥ pañcaviṁśatitatvajñaḥ pañcayajñaprabhañjanaḥ . |
|||
प्रतिष्ठितः प्रमाणज्ञः प्रमाणम्परमन्तपः । पञ्चब्रह्मसमुत्पत्तिः परमात्मा परावरः ॥ १०४॥ pratiṣṭhitaḥ pramāṇajñaḥ pramāṇamparamantapaḥ . |
|||
पिनाकपाणिः प्रांशुश्चप्रत्ययः परमेश्वरः । प्रभाकरः प्रत्ययश्च प्रणवश्च पुरञ्जयः ॥ १०५॥ pinākapāṇiḥ prāṁśuścapratyayaḥ parameśvaraḥ . |
|||
पवित्रपाणिः पापारिः प्रतापार्चिरपान्निधिः । पुलस्त्यः पुलहोगस्त्यो पुरुहूतः पुरुष्टुतः ॥ १०६॥ pavitrapāṇiḥ pāpāriḥ pratāpārcirapānnidhiḥ . |
|||
पद्माकरः परञ्ज्योतिः परापरफलप्रदः । परापरज्ञः परदः परशत्रुः परम्पदः ॥ १०७॥ padmākaraḥ parañjyotiḥ parāparaphalapradaḥ . |
|||
पूर्णः पूरयितापुण्यः पुण्यश्रवणकीर्तनः । पुरन्दरः पुण्यकीर्तिः प्रमादी पापनाशनः ॥ १०८॥ pūrṇaḥ pūrayitāpuṇyaḥ puṇyaśravaṇakīrtanaḥ . |
|||
परशीलः परगुणः पाण्डुरागपुरन्दरः । परार्थवृत्तिः प्रभवः पुरुषः पूर्वजः पिता ॥ १०९॥ paraśīlaḥ paraguṇaḥ pāṇḍurāgapurandaraḥ . |
|||
पिङ्गलः पवनः प्रेक्षः प्रतप्तः पूषदन्तहा । परमार्थगुरुः प्रीतः प्रीतिमांश्च प्रतापनः ॥ ११०॥ piṅgalaḥ pavanaḥ prekṣaḥ prataptaḥ pūṣadantahā . |
|||
पराशरः पद्मगर्भः परः परपुरञ्जयः । उपद्रवः पद्मकरः परमार्थैक पण्डितः ॥ १११॥ parāśaraḥ padmagarbhaḥ paraḥ parapurañjayaḥ . |
|||
महेश्वरो महादेवो मुद्गलो मधुरोमृदुः । मनःशायी महायोगी महाकर्मा महौषधम् ॥ ११२॥ maheśvaro mahādevo mudgalo madhuromṛduḥ . |
|||
महर्षिः कपिलाचार्यो मृगव्याधो महाबलः । महानिधिर्महाभूतिर्महानीतिर्महामतिः ॥ ११३॥ maharṣiḥ kapilācāryo mṛgavyādho mahābalaḥ . |
|||
महाहृदो महागर्तो महाभूतो मृतोपमः । अमृतांशोमृतवपुर्मरीचिर्महिमालयः ॥ ११४॥ mahāhṛdo mahāgarto mahābhūto mṛtopamaḥ . |
|||
महातमो महाकायो मृगबाणार्पणोमलः । महाबलो महातेजो महायोगी महामनः ॥ ११५॥ mahātamo mahākāyo mṛgabāṇārpaṇomalaḥ . |
|||
महामायो महासत्वो महानादो महोत्सवः । महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ॥ ११६॥ mahāmāyo mahāsatvo mahānādo mahotsavaḥ . |
|||
उन्मत्तकीर्तिरुन्मत्तो माधवीनमितोमतिः । महाश्रृङ्गोऽमृतोमन्त्रो माङ्गल्यो मङ्गलप्रियः ॥ ११७॥ unmattakīrtirunmatto mādhavīnamitomatiḥ . |
|||
अमोघदण्डो मध्यस्छोमहेन्द्रोऽमोघविक्रमः । अमेयोऽरिष्टमथनो मुकुन्दस्त्वमयाचलः ॥ ११८॥ amoghadaṇḍo madhyaschomahendro'moghavikramaḥ . |
|||
मातामहो मातरिश्वा मणिपूरो महाशयः । महाश्रयो महागर्भो महाकल्पो महाधनुः ॥ ११९॥ mātāmaho mātariśvā maṇipūro mahāśayaḥ . |
|||
मनो मनोजवो मानी मेरुमेद्यो मृदोमनुः । महाकोशो महाज्ञानी महाकालः कलिप्रियः ॥ १२०॥ mano manojavo mānī merumedyo mṛdomanuḥ . |
|||
महाबटुर्महात्यागी महाकोशोमहागतिः । शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १२१॥ mahābaṭurmahātyāgī mahākośomahāgatiḥ . |
|||
मेखली कञ्चुकी खड्गी माली मायी महामणिः । महेष्वासो महीभर्ता महावीरो महीभूजः ॥ १२२॥ mekhalī kañcukī khaḍgī mālī māyī mahāmaṇiḥ . |
|||
मखकर्ता मखध्वंसी मधुरो मधुरप्रियः । ब्रह्मसृष्टिर्ब्रह्मवीर्यो बाणहस्तो महाबली ॥ १२३॥ makhakartā makhadhvaṁsī madhuro madhurapriyaḥ . |
|||
कालरूपो बलोन्मादी ब्रह्मण्यो ब्रह्मवर्चसी । बहुरूपो बहुमायो ब्रह्माविष्णुशिवात्मकः ॥ १२४॥ kālarūpo balonmādī brahmaṇyo brahmavarcasī . |
|||
ब्रह्मगर्भो बृहद्गर्भो बृहज्ज्योतिर्बृहत्तरः । बीजाध्यक्षो बीजकर्ता बीजाङ्गो बीजवाहनः ॥ १२५॥ brahmagarbho bṛhadgarbho bṛhajjyotirbṛhattaraḥ . |
|||
ब्रह्म ब्रह्मविदो ब्रह्मज्योतिर्बृहस्पतिः । बीजबुद्धि ब्रह्मचारी ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२६॥ brahma brahmavido brahmajyotirbṛhaspatiḥ . |
|||
युगादिकृद्युगावर्तो युगाध्यक्षो युगापहा । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १२७॥ yugādikṛdyugāvarto yugādhyakṣo yugāpahā . |
|||
योगाचार्यो योगगम्यो योगी योगश्चयोगवित् । योगाङ्गो योगसारङ्गो यक्षोयुक्तिर्यमोयमी ॥ १२८॥ yogācāryo yogagamyo yogī yogaścayogavit . |
|||
रौद्रो रुद्र ऋषी राहू रुचिर्त्वं रणप्रियः । अरोगो रोगहारी च रुधिरो रुचिराङ्गदी ॥ १२९॥ raudro rudra ṛṣī rāhū rucirtvaṁ raṇapriyaḥ . |
|||
लोहिताक्षो ललाटाक्षो लोकदो लोककारकः । लोकबन्धुर्लोकनाथो लक्षण ज्ञोथलक्षणः ॥ १३०॥ lohitākṣo lalāṭākṣo lokado lokakārakaḥ . |
|||
लोकमायो लोककर्ता लौल्यो ललित एव च । वरीयानू वरदो वन्द्यो विद्वान् विश्वामरेश्वरः ॥ १३१॥ lokamāyo lokakartā laulyo lalita eva ca . |
|||
वेदान्तसारसन्देहो वीतरागो विशारदः । विश्वमूर्तिर्विश्ववेद्यो वामदेवो विमोचकः ॥ १३२॥ vedāntasārasandeho vītarāgo viśāradaḥ . |
|||
विश्वरूपो विश्वपक्षो वागीशो वृषवाहनः । वृषाङ्कोथ विशालाक्षो विश्वदीप्तिर्विलोचनः ॥ १३३॥ viśvarūpo viśvapakṣo vāgīśo vṛṣavāhanaḥ . |
|||
विलोको विश्वदृग्विश्वोविजितात्मालयः पुमान् । व्याघ्रचर्मधरोवाङ्गी वाङ्मयैकविधिर्विभुः ॥ १३४॥ viloko viśvadṛgviśvovijitātmālayaḥ pumān . |
|||
वर्णाश्रम गुरुवर्णी वरदो वायुवाहनः । विश्वकर्मा विनीतात्मा वेदशास्त्रार्थ तत्ववित् ॥ १३५॥ varṇāśrama guruvarṇī varado vāyuvāhanaḥ . |
|||
वसुर्वसुमना व्यालो विरामो विमदः कविः । विमोचकश्चविजयो विशिष्टो वृषवाहनः ॥ १३६॥ vasurvasumanā vyālo virāmo vimadaḥ kaviḥ . |
|||
विद्येशो विबुधो वादी वेदाङ्गो वेदविन्मुतिः । विश्वेश्वरो वीरभद्रो वीरासन विधिर्विराट ॥ १३७॥ vidyeśo vibudho vādī vedāṅgo vedavinmutiḥ . |
|||
व्यवसायो व्यवस्छानः वीरचुडामणिर्वरः । वालखिल्यो विश्वदेहो विरामो वसुदोवसुः ॥ १३८॥ vyavasāyo vyavaschānaḥ vīracuḍāmaṇirvaraḥ . |
|||
विरोचनो वररुचिर्वेद्यो वाचस्पतिर्गतिः । विद्वत्तमोवीतभयो विश्रुतिर्विमलोदयः ॥ १३९॥ virocano vararucirvedyo vācaspatirgatiḥ . |
|||
वैवस्वतो वसिष्ठश्च विभूतिर्विगतज्वरः । विश्वहर्ता विश्वागोप्ता विश्वामित्रो द्विजेश्वरः ॥ १४०॥ vaivasvato vasiṣṭhaśca vibhūtirvigatajvaraḥ . |
|||
विश्वोत्पत्तिर्विश्वसहो विश्वावासो वसुश्रवाः । विश्वरूपो वज्रहस्तो विपाको विश्वकारकः ॥ १४१॥ viśvotpattirviśvasaho viśvāvāso vasuśravāḥ . |
|||
वृषदर्श्वो व्यासकल्पो विशल्पो लोकशल्यहृत् । विरूपो विकृतो वेगी विरञ्चिर्विष्टरश्रवाः ॥ १४२॥ vṛṣadarśvo vyāsakalpo viśalpo lokaśalyahṛt . |
|||
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः । विबुद्धोऽग्रकरो वेदो विश्वगर्भो विचक्षणः ॥ १४३॥ avyaktalakṣaṇo vyakto vyaktāvyakto viśāmpatiḥ . |
|||
विष्माक्षो विलोमाक्षो वृषभो वृषवर्द्धनः । वित्तप्रदो वसन्तश्च विवस्वान् विक्रमोत्तमः ॥ १४४॥ viṣmākṣo vilomākṣo vṛṣabho vṛṣavarddhanaḥ . |
|||
वेद्यो वैद्यो विश्वरूपो विविक्तो विश्वभाजनम् । विषयस्छो विविक्तस्छो विद्याराशिर्वियत्प्रियः ॥ १४५॥ vedyo vaidyo viśvarūpo vivikto viśvabhājanam . |
|||
शिवः सर्वः सदाचारः शम्भुरीशान ईश्वरः । श्रुतिधर्मानसंवादी सहस्राक्षः सहस्रपात् ॥ १४६॥ śivaḥ sarvaḥ sadācāraḥ śambhurīśāna īśvaraḥ . |
|||
सर्वज्ञः सर्वदेवश्च शङ्करः शूलधारकः । सुशरीरः स्कन्दगुरुः श्रीकण्ठः सूर्यतापनः ॥ १४७॥ sarvajñaḥ sarvadevaśca śaṅkaraḥ śūladhārakaḥ . |
|||
ईशानो निलयः स्वस्ति सामवेदस्त्वथर्ववित् । नीतिः सुनीतिः श्रद्धात्मा सोमः सोमतरः सुखी ॥ १४८॥ īśāno nilayaḥ svasti sāmavedastvatharvavit . |
|||
सोमपामृतपः सौम्यः सूत्रकारः सनातनः । शाखो विशाखो सम्भाव्यः सर्वदः सर्वगोचरः ॥ १४९॥ somapāmṛtapaḥ saumyaḥ sūtrakāraḥ sanātanaḥ . |
|||
सदाशिवः समावृत्तिः सुकीर्तिः स्छिन्नसंशयः । सर्वावासः सदावासः सर्वायुधविशारदः ॥ १५०॥ sadāśivaḥ samāvṛttiḥ sukīrtiḥ schinnasaṁśayaḥ . |
|||
सुलभः सुव्रतः शूरः शुभाङ्गः शुभविग्रहः । सुवर्णाङ्गः स्वात्मशत्रुः शत्रुजिछत्रुतापनः ॥ १५१॥ sulabhaḥ suvrataḥ śūraḥ śubhāṅgaḥ śubhavigrahaḥ . |
|||
शनिः सूर्यः सर्वकर्मा सर्वलोकप्रजापतिः । सिद्धः सर्वेश्वरः स्वस्ति स्वस्तिकृत्स्वस्ति भूस्वधा ॥ १५२॥ śaniḥ sūryaḥ sarvakarmā sarvalokaprajāpatiḥ . |
|||
वसुर्वसुमनासत्यः सर्वपापहरोहरः । सर्वादिः सिद्धिदः सिद्धिः सत्वावासःश्चतुष्पथः ॥ १५३॥ vasurvasumanāsatyaḥ sarvapāpaharoharaḥ . |
|||
संवत्सरकरः श्रीमान् शान्तः संवत्सरः शिशुः । स्पष्टाक्षरः सर्वहारी सङ्ग्रामः समराधिकः ॥ १५४॥ saṁvatsarakaraḥ śrīmān śāntaḥ saṁvatsaraḥ śiśuḥ . |
|||
इष्टोविशिष्टः शिष्टेष्टः शुभदः सुलभायनः । सुब्रह्मण्यः सुरगणो सुशरण्यः सुधापतिः ॥ १५५॥ iṣṭoviśiṣṭaḥ śiṣṭeṣṭaḥ śubhadaḥ sulabhāyanaḥ . |
|||
शरण्यः शाश्वतः स्कन्दः शिपिविष्टः शिवाश्रयः । संसारचक्रभृत्सारः शङ्करः सर्वसाधकः ॥ १५६॥ śaraṇyaḥ śāśvataḥ skandaḥ śipiviṣṭaḥ śivāśrayaḥ . |
|||
शस्त्रं शास्त्रं शान्तरागः सवितासकलागमः । सुवीरः सत्पथाचारः षड्विंशः सप्तलोकधृक् ॥ १५७॥ śastraṁ śāstraṁ śāntarāgaḥ savitāsakalāgamaḥ . |
|||
सम्राट् सुवेषः शत्रुघ्नोऽसुरशत्रुः शुभोदयः । समर्थः सुगतः शक्रः सद्योगी सदसन्मयः ॥ १५८॥ samrāṭ suveṣaḥ śatrughno'suraśatruḥ śubhodayaḥ . |
|||
शास्त्रनेत्रं मुखं श्मश्रु स्वाधिष्ठानं षडाश्रयः । अभूः सत्यपतिर्वृद्धः शमनः शिखिसारथिः ॥ १५९॥ śāstranetraṁ mukhaṁ śmaśru svādhiṣṭhānaṁ ṣaḍāśrayaḥ . |
|||
सुप्रतीकः सुवृद्धात्मा वामनः सुखवारिधिः । सुखानीडः सुनिष्पन्नः सुरभिः सृष्टिरात्मकः ॥ १६०॥ supratīkaḥ suvṛddhātmā vāmanaḥ sukhavāridhiḥ . |
|||
सर्वदेवमयः शैलः सर्वशस्त्रप्रभञ्जनः । शिवालयः सर्वरूपः सहस्रमुखनासिका ॥ १६१॥ sarvadevamayaḥ śailaḥ sarvaśastraprabhañjanaḥ . |
|||
सहस्रबाहुः सर्वेषां शरण्यः सर्वलोकधृक् । इन्द्रेशः सुरसव्यासः सर्वदेवोत्तमोत्तमः ॥ १६२॥ sahasrabāhuḥ sarveṣāṁ śaraṇyaḥ sarvalokadhṛk . |
|||
शिवध्यानरतः श्रीमान् शिखिश्री चण्डिकाप्रियः । श्मशाननिलयः सेतुः सर्वभूतमहेश्वरः ॥ १६३॥ śivadhyānarataḥ śrīmān śikhiśrī caṇḍikāpriyaḥ . |
|||
सुविशिष्टः सुराध्यक्षः सुकुमारः सुलोचनः । सकलः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥ १६४॥ suviśiṣṭaḥ surādhyakṣaḥ sukumāraḥ sulocanaḥ . |
|||
सामगः सकलधारः सामगानप्रियः शिचिः । सद्गतिः सत्कृतिः शान्तसद्भूतिः सत्परायणः ॥ १६५॥ sāmagaḥ sakaladhāraḥ sāmagānapriyaḥ śiciḥ . |
|||
शुचिस्मितः प्रसन्नात्मा सर्वशस्त्रमृतांवरः । सर्वावासः स्तुतस्त्वष्टा सत्यव्रतपरायणः ॥ १६६॥ śucismitaḥ prasannātmā sarvaśastramṛtāṁvaraḥ . |
|||
श्रीवल्लभः शिवारम्भः शान्तभद्रः सुमानसः । सत्यवान् सात्विकः सत्यः सर्वजिछ्रुतिसागरः ॥ १६७॥ śrīvallabhaḥ śivārambhaḥ śāntabhadraḥ sumānasaḥ . |
|||
सहस्रार्चिः सप्तजिह्वः सप्तावर मुनीश्वरः । संसारसारथिः शुद्धः शत्रुघ्नः शत्रुतापनः ॥ १६८॥ sahasrārciḥ saptajihvaḥ saptāvara munīśvaraḥ . |
|||
सुरेशः शरणं शर्म सर्वदेवः सताङ्गतिः । सद्धृत्तोव्रतसिद्धिश्च सिद्धिदः सिद्धिसाधनः ॥ १६९॥ sureśaḥ śaraṇaṁ śarma sarvadevaḥ satāṅgatiḥ . |
|||
शान्तबुद्धिः शुद्धबुद्धिः स्रष्टास्तोऽतास्तवप्रियः । रसज्ञः सर्वसारज्ञः सर्वसत्वावलम्बनः ॥ १७०॥ śāntabuddhiḥ śuddhabuddhiḥ sraṣṭāsto'tāstavapriyaḥ . |
|||
स्थूलः सूक्ष्मः सुसूक्ष्मश्च सहस्राक्षः प्रकाशकः । सारमेयानुगः सुभ्रूः प्रौढबाहुः सहस्रदृक् ॥ १७१॥ sthūlaḥ sūkṣmaḥ susūkṣmaśca sahasrākṣaḥ prakāśakaḥ . |
|||
गृहात्मको रुद्ररूपी वषट् स्वरमयः शशी ॥ आदित्यः सर्वकर्त्ता च सर्वायुः सर्वबुद्धिदः । १७२॥ gṛhātmako rudrarūpī vaṣaṭ svaramayaḥ śaśī .. |
|||
संहृष्टस्तुसदापुष्टो घुर्घुरो रक्तलोचनः । पादुकासिद्धिदः पाता पारुष्य विनिषूदनः ॥ १७३॥ saṁhṛṣṭastusadāpuṣṭo ghurghuro raktalocanaḥ . |
|||
अष्टसिद्धिर्महासिद्धिः परः सर्वाभिचारकः । भूतवेतालघाती च वेतालानुचरोरविः ॥ १७४॥ aṣṭasiddhirmahāsiddhiḥ paraḥ sarvābhicārakaḥ . |
|||
कालाग्निः कालरुद्रश्च कालादित्यः कलामयः । कालमाली कालकण्ठस्त्र्य्म्बकस्त्रिपुरान्तकः ॥ १७५॥ kālāgniḥ kālarudraśca kālādityaḥ kalāmayaḥ . |
|||
सर्वाभिचारीहन्ता च तथा कृत्यानिषूदनः । आन्त्रमाली घण्टमाली स्वर्णाकर्षणभैरवः ॥ १७६॥ sarvābhicārīhantā ca tathā kṛtyāniṣūdanaḥ . |
|||
नाम्नां सहस्रं दिव्यानां भैरवस्य महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ १७७॥ nāmnāṁ sahasraṁ divyānāṁ bhairavasya mahātmanaḥ . |
|||
भैरवस्य वरारोहे वरं नामसहस्रकम् । पठते पाठयेद्यस्तु श्रुणुयात्सु समाहितः ॥ १७८॥ bhairavasya varārohe varaṁ nāmasahasrakam . |
|||
न तस्य दुरितं किञ्चिन्नमारी भयमेवच । न च भूतभयं किञ्चिन्न रोगाणां भयं तथा ॥ १७९॥ na tasya duritaṁ kiñcinnamārī bhayamevaca . |
|||
न पातकाद्भयं चैव शत्रुतो न भयं भवेत् । मारीभयं चोरभयं नाग्निव्याघ्रादिजं भयम् ॥ १८०॥ na pātakādbhayaṁ caiva śatruto na bhayaṁ bhavet . |
|||
औत्पातिकं महाघोरं पठते यो विलीयते । दुःस्वप्नजे राजभये विपत्तौ घोरदर्शने ॥ १८१॥ autpātikaṁ mahāghoraṁ paṭhate yo vilīyate . |
|||
स्तोत्रमेतत्पठेद्विद्वान्सर्वदुःखौघनाशनम् । सर्वप्रशममायाति सहस्रपरिकीर्तनात् ॥ १८२॥ stotrametatpaṭhedvidvānsarvaduḥkhaughanāśanam . |
|||
एककालं द्विकालं वा त्रिकालमथवानिशी । पठेद्यो नियताहारः सर्वसिद्धि च विन्दति ॥ १८३॥ ekakālaṁ dvikālaṁ vā trikālamathavāniśī . |
|||
भूमिकामो भूतिकामः षण्मासं च जपेत्सुधीः । प्रतिकृत्या विनाशार्थं जपेत्रिशतमुत्तमम् ॥ १८४॥ bhūmikāmo bhūtikāmaḥ ṣaṇmāsaṁ ca japetsudhīḥ . |
|||
मासत्रयेण सर्वेषां रिपूणामन्तको भवेत् । मासत्रयं जपेद्देवि निशिनिश्चलमानसः ॥ १८५॥ māsatrayeṇa sarveṣāṁ ripūṇāmantako bhavet . |
|||
धनं पुत्रान् तथादारान् प्राप्नुयान्नात्र संशयः । महाकारागृहे बद्धपिशाचैः परिवारितः ॥ १८६॥ dhanaṁ putrān tathādārān prāpnuyānnātra saṁśayaḥ . |
|||
निगडैः शृङ्खलाभिश्च बन्धनं परमं गतः । पठेद्देवि दिवारात्रौ सर्वान्कामान्नवाप्नुयात् ॥ १८७॥ nigaḍaiḥ śṛṅkhalābhiśca bandhanaṁ paramaṁ gataḥ . |
|||
शतमावर्तनाद्देवि पुरश्चरणमुच्यते । यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ १८८॥ śatamāvartanāddevi puraścaraṇamucyate . |
|||
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । सर्व कामः प्रदो देवि भैरवः सर्वसिद्धिदः ॥ १८९॥ satyaṁ satyaṁ punaḥ satyaṁ satyaṁ satyaṁ punaḥ punaḥ . |
|||
सत्कुलीनाय शान्ताय ऋषये सत्यवादिन । स्तोत्रदानात्सु प्रहृष्टो भैरवोभून्महेश्वरः ॥ १९०॥ satkulīnāya śāntāya ṛṣaye satyavādina . |
.. itiśrīuḍḍāmaretantre umāmaheśvara saṁvāde bhairavasahasranāmastotraṁ sampūrṇam ..